|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.258. अध्यायः 258
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति आकाशादिभूतगुणादिप्रतिपादकव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-258-0x(6264)(75686)
द्वन्द्वासि मोक्षजिज्ञासुरर्थधर्मानुतिष्ठतः।
वक्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्॥ 12-258-1(75687)
आकाशं मारुतो ज्योतिरा--पृथ्वी च पञ्चमी।
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु॥ 12-258-2(75688)
अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्।
तस्य शब्दं गुणं विद्यान्मुनिः शास्त्रविधानवित्॥ 12-258-3(75689)
चरणं मारुतात्मेति प्राणापानौ च तन्मयौ।
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम्॥ 12-258-4(75690)
तापः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम्।
तस्य रूपं गुणं विद्यात्तमोनाशकमात्मवान्॥ 12-258-5(75691)
प्रक्लेदो द्रवता स्नेह इत्यपामुपदिश्यते।
[असृङ्भज्जा च यच्चान्यत्स्निग्धं विद्यात्तदात्मकम्॥]
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः॥ 12-258-6(75692)
संघातः पार्थिवो धातुरस्थिदन्तनखानि च।
श्मश्चु रोम च केशाश्च सिरा स्नायु च चर्म च॥ 12-258-7(75693)
इन्द्रियं घ्राणसंज्ञातं नासिकेत्यभिसंज्ञिता।
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः॥ 12-258-8(75694)
उत्तरेषु गुणाः सर्वे सन्ति पूर्वेषु नोत्तराः।
पञ्चानां भूतसङ्घानां संततिं मुनयो विदुः॥ 12-258-9(75695)
मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता।
एकादशस्त्वन्तरात्मा स सर्वः पर उच्यते॥ 12-258-10(75696)
व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्।
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः॥ 12-258-11(75697)
एभिः कालात्मकैर्भावैर्यः सर्वैः सर्वमन्वितम्।
पश्यत्यकलुयं बुद्ध्या स मोहं नानुवर्तते॥ ॥ 12-258-12(75698)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः॥ 258॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-258-1 द्वन्द्वान्निर्मोक्षजिज्ञासुरिति ध. पाठः॥ 12-258-9 उत्तरेषु भूतेषु पूर्वभूतगुणाः सन्ति॥ 12-258-11 मनोव्याहरणात्मकमिति ट. थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|